Ṛk 1.45.1
Saṃhitā
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुषं॑ ॥
त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत |
यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ||
tvámagne vásūm̐rihá rudrā́m̐ ādityā́m̐ utá ǀ
yájā svadhvarám jánam mánujātam ghṛtaprúṣam ǁ
tvam agne vasūṃr iha rudrāṃ ādityāṃ uta |
yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥
त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत ।
यज । सुऽअध्वरम् । जनम् । मनुऽजातम् । घृतऽप्रुषम् ॥
tvám ǀ agne ǀ vásūn ǀ ihá ǀ rudrā́n ǀ ādityā́n ǀ utá ǀ
yája ǀ su-adhvarám ǀ jánam ǀ mánu-jātam ǀ ghṛta-prúṣam ǁ
tvam ǀ agne ǀ vasūn ǀ iha ǀ rudrān ǀ ādityān ǀ uta ǀ
yaja ǀ su-adhvaram ǀ janam ǀ manu-jātam ǀ ghṛta-pruṣam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.045.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.31.01
- Maṇḍala · Anuvāka · Ṛk
- 01.09.015
- Devatā देवता
- 1-9: Agni; 10: Agni (Ab); Devās (Cd)
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.