Ṛk 1.33.2
Saṃhitā
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि ।
इंद्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि |
इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ||
úpédahám dhanadā́mápratītam júṣṭām ná śyenó vasatím patāmi ǀ
índram namasyánnupamébhirarkáiryáḥ stotṛ́bhyo hávyo ásti yā́man ǁ
uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi |
indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman ||
Padapāṭha
उप॑ । इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ ।
इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥
उप । इत् । अहम् । धनऽदाम् । अप्रतिऽइतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि ।
इन्द्रम् । नमस्यन् । उपऽमेभिः । अर्कैः । यः । स्तोतृऽभ्यः । हव्यः । अस्ति । यामन् ॥
úpa ǀ ít ǀ ahám ǀ dhana-dā́m ǀ áprati-itam ǀ júṣṭām ǀ ná ǀ śyenáḥ ǀ vasatím ǀ patāmi ǀ
índram ǀ namasyán ǀ upa-mébhiḥ ǀ arkáiḥ ǀ yáḥ ǀ stotṛ́-bhyaḥ ǀ hávyaḥ ǀ ásti ǀ yā́man ǁ
upa ǀ it ǀ aham ǀ dhana-dām ǀ aprati-itam ǀ juṣṭām ǀ na ǀ śyenaḥ ǀ vasatim ǀ patāmi ǀ
indram ǀ namasyan ǀ upa-mebhiḥ ǀ arkaiḥ ǀ yaḥ ǀ stotṛ-bhyaḥ ǀ havyaḥ ǀ asti ǀ yāman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.033.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.01.02
- Maṇḍala · Anuvāka · Ṛk
- 01.07.035
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.