Ṛk 1.33.5
Saṃhitā
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इं॒द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः ।
प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः |
प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ||
párā cicchīrṣā́ vavṛjustá indrā́yajvāno yájvabhiḥ spárdhamānāḥ ǀ
prá yáddivó harivaḥ sthātarugra níravratā́m̐ adhamo ródasyoḥ ǁ
parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ |
pra yad divo hariva sthātar ugra nir avratāṃ adhamo rodasyoḥ ||
Padapāṭha
परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑ऽभिः । स्पर्ध॑मानाः ।
प्र । यत् । दि॒वः । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः ॥
परा । चित् । शीर्षा । ववृजुः । ते । इन्द्र । अयज्वानः । यज्वऽभिः । स्पर्धमानाः ।
प्र । यत् । दिवः । हरिऽवः । स्थातः । उग्र । निः । अव्रतान् । अधमः । रोदस्योः ॥
párā ǀ cit ǀ śīrṣā́ ǀ vavṛjuḥ ǀ té ǀ indra ǀ áyajvānaḥ ǀ yájva-bhiḥ ǀ spárdhamānāḥ ǀ
prá ǀ yát ǀ diváḥ ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ níḥ ǀ avratā́n ǀ adhamaḥ ǀ ródasyoḥ ǁ
parā ǀ cit ǀ śīrṣā ǀ vavṛjuḥ ǀ te ǀ indra ǀ ayajvānaḥ ǀ yajva-bhiḥ ǀ spardhamānāḥ ǀ
pra ǀ yat ǀ divaḥ ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ niḥ ǀ avratān ǀ adhamaḥ ǀ rodasyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.033.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.01.05
- Maṇḍala · Anuvāka · Ṛk
- 01.07.038
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.