Ṛk 1.33.14
Saṃhitā
आवः॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कन्प्रावो॒ युध्यं॑तं वृष॒भं दश॑द्युं ।
श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् |
शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ||
ā́vaḥ kútsamindra yásmiñcākánprā́vo yúdhyantam vṛṣabhám dáśadyum ǀ
śaphácyuto reṇúrnakṣata dyā́múcchvaitreyó nṛṣā́hyāya tasthau ǁ
āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
Padapāṭha
आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
श॒फऽच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒ऽसह्या॑य । त॒स्थौ॒ ॥
आवः । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । प्र । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।
शफऽच्युतः । रेणुः । नक्षत । द्याम् । उत् । श्वैत्रेयः । नृऽसह्याय । तस्थौ ॥
ā́vaḥ ǀ kútsam ǀ indra ǀ yásmin ǀ cākán ǀ prá ǀ āvaḥ ǀ yúdhyantam ǀ vṛṣabhám ǀ dáśa-dyum ǀ
śaphá-cyutaḥ ǀ reṇúḥ ǀ nakṣata ǀ dyā́m ǀ út ǀ śvaitreyáḥ ǀ nṛ-sáhyāya ǀ tasthau ǁ
āvaḥ ǀ kutsam ǀ indra ǀ yasmin ǀ cākan ǀ pra ǀ āvaḥ ǀ yudhyantam ǀ vṛṣabham ǀ daśa-dyum ǀ
śapha-cyutaḥ ǀ reṇuḥ ǀ nakṣata ǀ dyām ǀ ut ǀ śvaitreyaḥ ǀ nṛ-sahyāya ǀ tasthau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.033.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.03.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.047
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.