Ṛk 1.33.1
Saṃhitā
एताया॒मोप॑ ग॒व्यंत॒ इंद्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति ।
अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति |
अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ||
étā́yāmópa gavyánta índramasmā́kam sú prámatim vāvṛdhāti ǀ
anāmṛṇáḥ kuvídā́dasyá rāyó gávām kétam páramāvárjate naḥ ǁ
etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti |
anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ ||
Padapāṭha
आ । इ॒त॒ । अया॑म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ ।
अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॑म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥
आ । इत । अयाम । उप । गव्यन्तः । इन्द्रम् । अस्माकम् । सु । प्रऽमतिम् । ववृधाति ।
अनामृणः । कुवित् । आत् । अस्य । रायः । गवाम् । केतम् । परम् । आऽवर्जते । नः ॥
ā́ ǀ ita ǀ áyāma ǀ úpa ǀ gavyántaḥ ǀ índram ǀ asmā́kam ǀ sú ǀ prá-matim ǀ vavṛdhāti ǀ
anāmṛṇáḥ ǀ kuvít ǀ ā́t ǀ asyá ǀ rāyáḥ ǀ gávām ǀ kétam ǀ páram ǀ ā-várjate ǀ naḥ ǁ
ā ǀ ita ǀ ayāma ǀ upa ǀ gavyantaḥ ǀ indram ǀ asmākam ǀ su ǀ pra-matim ǀ vavṛdhāti ǀ
anāmṛṇaḥ ǀ kuvit ǀ āt ǀ asya ǀ rāyaḥ ǀ gavām ǀ ketam ǀ param ǀ ā-varjate ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.033.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.01.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.034
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.