Ṛgveda · Maṇḍala 1 · Sūkta 119
Ṛk 1.119.3
Saṃhitā
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वरं॑ ॥
सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे |
युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ||
sám yánmitháḥ paspṛdhānā́so ágmata śubhé makhā́ ámitā jāyávo ráṇe ǀ
yuvóráha pravaṇé cekite rátho yádaśvinā váhathaḥ sūrímā́ váram ǁ
saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam ||
Padapāṭha
सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।
यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥
सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे ।
युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥
sám ǀ yát ǀ mitháḥ ǀ paspṛdhānā́saḥ ǀ ágmata ǀ śubhé ǀ makhā́ḥ ǀ ámitāḥ ǀ jāyávaḥ ǀ ráṇe ǀ
yuvóḥ ǀ áha ǀ pravaṇé ǀ cekite ǀ ráthaḥ ǀ yát ǀ aśvinā ǀ váhathaḥ ǀ sūrím ǀ ā́ ǀ váram ǁ
sam ǀ yat ǀ mithaḥ ǀ paspṛdhānāsaḥ ǀ agmata ǀ śubhe ǀ makhāḥ ǀ amitāḥ ǀ jāyavaḥ ǀ raṇe ǀ
yuvoḥ ǀ aha ǀ pravaṇe ǀ cekite ǀ rathaḥ ǀ yat ǀ aśvinā ǀ vahathaḥ ǀ sūrim ǀ ā ǀ varam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.119.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.20.03
- Maṇḍala · Anuvāka · Ṛk
- 1.17.064
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.