Ṛgveda · Maṇḍala 1 · Sūkta 119
Ṛk 1.119.9
Saṃhitā
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥
उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति |
युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ||
utá syā́ vām mádhumanmákṣikārapanmáde sómasyauśijó huvanyati ǀ
yuvám dadhīcó mána ā́ vivāsathó’thā śíraḥ práti vāmáśvyam vadat ǁ
uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati |
yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat ||
Padapāṭha
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।
यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥
उत । स्या । वाम् । मधुऽमत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति ।
युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥
utá ǀ syā́ ǀ vām ǀ mádhu-mat ǀ mákṣikā ǀ arapat ǀ máde ǀ sómasya ǀ auśijáḥ ǀ huvanyati ǀ
yuvám ǀ dadhīcáḥ ǀ mánaḥ ǀ ā́ ǀ vivāsathaḥ ǀ átha ǀ śíraḥ ǀ práti ǀ vām ǀ áśvyam ǀ vadat ǁ
uta ǀ syā ǀ vām ǀ madhu-mat ǀ makṣikā ǀ arapat ǀ made ǀ somasya ǀ auśijaḥ ǀ huvanyati ǀ
yuvam ǀ dadhīcaḥ ǀ manaḥ ǀ ā ǀ vivāsathaḥ ǀ atha ǀ śiraḥ ǀ prati ǀ vām ǀ aśvyam ǀ vadat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.119.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.21.04
- Maṇḍala · Anuvāka · Ṛk
- 1.17.070
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.