Ṛgveda · Maṇḍala 1 · Sūkta 103
Ṛk 1.103.1
Saṃhitā
तत्त॑ इंद्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयंत क॒वयः॑ पु॒रेदं ।
क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥
तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् |
क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ||
tátta indriyám paramám parācáirádhārayanta kaváyaḥ purédám ǀ
kṣamédámanyáddivyányádasya sámī pṛcyate samanéva ketúḥ ǁ
tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam |
kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ ||
Padapāṭha
तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् ।
क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥
तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् ।
क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमिति । पृच्यते । समनाऽइव । केतुः ॥
tát ǀ te ǀ indriyám ǀ paramám ǀ parācáiḥ ǀ ádhārayanta ǀ kaváyaḥ ǀ purā́ ǀ idám ǀ
kṣamā́ ǀ idám ǀ anyát ǀ diví ǀ anyát ǀ asya ǀ sám ǀ īmíti ǀ pṛcyate ǀ samanā́-iva ǀ ketúḥ ǁ
tat ǀ te ǀ indriyam ǀ paramam ǀ parācaiḥ ǀ adhārayanta ǀ kavayaḥ ǀ purā ǀ idam ǀ
kṣamā ǀ idam ǀ anyat ǀ divi ǀ anyat ǀ asya ǀ sam ǀ īmiti ǀ pṛcyate ǀ samanā-iva ǀ ketuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.103.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.15.090
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.