Ṛk 1.37.6
Saṃhitā
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
यत्सी॒मंतं॒ न धू॑नु॒थ ॥
को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः |
यत् सीम् अन्तं न धूनुथ ||
kó vo várṣiṣṭha ā́ naro diváśca gmáśca dhūtayaḥ ǀ
yátsīmántam ná dhūnuthá ǁ
ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ |
yat sīm antaṃ na dhūnutha ||
Padapāṭha
कः । वः॒ । वर्षि॑ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ ।
यत् । सी॒म् । अन्त॑म् । न । धू॒नु॒थ ॥
कः । वः । वर्षिष्ठः । आ । नरः । दिवः । च । ग्मः । च । धूतयः ।
यत् । सीम् । अन्तम् । न । धूनुथ ॥
káḥ ǀ vaḥ ǀ várṣiṣṭhaḥ ǀ ā́ ǀ naraḥ ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ dhūtayaḥ ǀ
yát ǀ sīm ǀ ántam ǀ ná ǀ dhūnuthá ǁ
kaḥ ǀ vaḥ ǀ varṣiṣṭhaḥ ǀ ā ǀ naraḥ ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ dhūtayaḥ ǀ
yat ǀ sīm ǀ antam ǀ na ǀ dhūnutha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.037.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.13.01
- Maṇḍala · Anuvāka · Ṛk
- 01.08.026
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.