Ṛk 1.47.6
Saṃhitā
सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।
र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृहं॑ ॥
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना |
रयिं समुद्राद् उत वा दिवस् पर्य् अस्मे धत्तम् पुरुस्पृहम् ||
sudā́se dasrā vásu bíbhratā ráthe pṛ́kṣo vahatamaśvinā ǀ
rayím samudrā́dutá vā diváspáryasmé dhattam puruspṛ́ham ǁ
sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā |
rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham ||
Padapāṭha
सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ ।
र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥
सुऽदासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना ।
रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरुऽस्पृहम् ॥
su-dā́se ǀ dasrā ǀ vásu ǀ bíbhratā ǀ ráthe ǀ pṛ́kṣaḥ ǀ vahatam ǀ aśvinā ǀ
rayím ǀ samudrā́t ǀ utá ǀ vā ǀ diváḥ ǀ pári ǀ asmé íti ǀ dhattam ǀ puru-spṛ́ham ǁ
su-dāse ǀ dasrā ǀ vasu ǀ bibhratā ǀ rathe ǀ pṛkṣaḥ ǀ vahatam ǀ aśvinā ǀ
rayim ǀ samudrāt ǀ uta ǀ vā ǀ divaḥ ǀ pari ǀ asme iti ǀ dhattam ǀ puru-spṛham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.047.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.02.01
- Maṇḍala · Anuvāka · Ṛk
- 01.09.045
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.