Ṛk 1.47.3
Saṃhitā
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।
अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतं ॥
अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा |
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ||
áśvinā mádhumattamam pātám sómamṛtāvṛdhā ǀ
áthādyá dasrā vásu bíbhratā ráthe dāśvā́ṃsamúpa gacchatam ǁ
aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā |
athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam ||
Padapāṭha
अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ।
अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥
अश्विना । मधुमत्ऽतमम् । पातम् । सोमम् । ऋतऽवृधा ।
अथ । अद्य । दस्रा । वसु । बिभ्रता । रथे । दाश्वांसम् । उप । गच्छतम् ॥
áśvinā ǀ mádhumat-tamam ǀ pātám ǀ sómam ǀ ṛta-vṛdhā ǀ
átha ǀ adyá ǀ dasrā ǀ vásu ǀ bíbhratā ǀ ráthe ǀ dāśvā́ṃsam ǀ úpa ǀ gacchatam ǁ
aśvinā ǀ madhumat-tamam ǀ pātam ǀ somam ǀ ṛta-vṛdhā ǀ
atha ǀ adya ǀ dasrā ǀ vasu ǀ bibhratā ǀ rathe ǀ dāśvāṃsam ǀ upa ǀ gacchatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.047.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.01.03
- Maṇḍala · Anuvāka · Ṛk
- 01.09.042
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.