Ṛk 1.47.9
Saṃhitā
तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।
येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये॑ ॥
तेन नासत्या गतं रथेन सूर्यत्वचा |
येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ||
téna nāsatyā́ gatam ráthena sū́ryatvacā ǀ
yéna śáśvadūháthurdāśúṣe vásu mádhvaḥ sómasya pītáye ǁ
tena nāsatyā gataṃ rathena sūryatvacā |
yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye ||
Padapāṭha
तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे॑न । सूर्य॑ऽत्वचा ।
येन॑ । शश्व॑त् । ऊ॒हथुः॑ । दा॒शुषे॑ । वसु॑ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥
तेन । नासत्या । आ । गतम् । रथेन । सूर्यऽत्वचा ।
येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोमस्य । पीतये ॥
téna ǀ nāsatyā ǀ ā́ ǀ gatam ǀ ráthena ǀ sū́rya-tvacā ǀ
yéna ǀ śáśvat ǀ ūháthuḥ ǀ dāśúṣe ǀ vásu ǀ mádhvaḥ ǀ sómasya ǀ pītáye ǁ
tena ǀ nāsatyā ǀ ā ǀ gatam ǀ rathena ǀ sūrya-tvacā ǀ
yena ǀ śaśvat ǀ ūhathuḥ ǀ dāśuṣe ǀ vasu ǀ madhvaḥ ǀ somasya ǀ pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.047.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.02.04
- Maṇḍala · Anuvāka · Ṛk
- 01.09.048
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.