Ṛgveda · Maṇḍala 1 · Sūkta 177
Ṛk 1.177.4
Saṃhitā
अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमिं॑द्र॒ सोमः॑ ।
स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥
अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः |
स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ||
ayám yajñó devayā́ ayám miyédha imā́ bráhmāṇyayámindra sómaḥ ǀ
stīrṇám barhírā́ tú śakra prá yāhi píbā niṣádya ví mucā hárī ihá ǁ
ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ |
stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||
Padapāṭha
अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ ।
स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥
अयम् । यज्ञः । देवऽयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः ।
स्तीर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निऽसद्य । वि । मुच । हरी इति । इह ॥
ayám ǀ yajñáḥ ǀ deva-yā́ḥ ǀ ayám ǀ miyédhaḥ ǀ imā́ ǀ bráhmāṇi ǀ ayám ǀ indra ǀ sómaḥ ǀ
stīrṇám ǀ barhíḥ ǀ ā́ ǀ tú ǀ śakra ǀ prá ǀ yāhi ǀ píba ǀ ni-sádya ǀ ví ǀ muca ǀ hárī íti ǀ ihá ǁ
ayam ǀ yajñaḥ ǀ deva-yāḥ ǀ ayam ǀ miyedhaḥ ǀ imā ǀ brahmāṇi ǀ ayam ǀ indra ǀ somaḥ ǀ
stīrṇam ǀ barhiḥ ǀ ā ǀ tu ǀ śakra ǀ pra ǀ yāhi ǀ piba ǀ ni-sadya ǀ vi ǀ muca ǀ harī iti ǀ iha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.177.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.20.04
- Maṇḍala · Anuvāka · Ṛk
- 1.23.112
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.