Ṛgveda · Maṇḍala 1 · Sūkta 177
Ṛk 1.177.3
Saṃhitā
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।
यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ||
ā́ tiṣṭha rátham vṛ́ṣaṇam vṛ́ṣā te sutáḥ sómaḥ páriṣiktā mádhūni ǀ
yuktvā́ vṛ́ṣabhyām vṛṣabha kṣitīnā́m háribhyām yāhi pravátópa madrík ǁ
ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||
Padapāṭha
आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।
यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥
आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिऽसिक्ता । मधूनि ।
युक्त्वा । वृषऽभ्याम् । वृषभ । क्षितीनाम् । हरिऽभ्याम् । याहि । प्रऽवता । उप । मद्रिक् ॥
ā́ ǀ tiṣṭha ǀ rátham ǀ vṛ́ṣaṇam ǀ vṛ́ṣā ǀ te ǀ sutáḥ ǀ sómaḥ ǀ pári-siktā ǀ mádhūni ǀ
yuktvā́ ǀ vṛ́ṣa-bhyām ǀ vṛṣabha ǀ kṣitīnā́m ǀ hári-bhyām ǀ yāhi ǀ pra-vátā ǀ úpa ǀ madrík ǁ
ā ǀ tiṣṭha ǀ ratham ǀ vṛṣaṇam ǀ vṛṣā ǀ te ǀ sutaḥ ǀ somaḥ ǀ pari-siktā ǀ madhūni ǀ
yuktvā ǀ vṛṣa-bhyām ǀ vṛṣabha ǀ kṣitīnām ǀ hari-bhyām ǀ yāhi ǀ pra-vatā ǀ upa ǀ madrik ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.177.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.20.03
- Maṇḍala · Anuvāka · Ṛk
- 1.23.111
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.