Ṛgveda · Maṇḍala 1 · Sūkta 177
Ṛk 1.177.1
Saṃhitā
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।
स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥
आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः |
स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ||
ā́ carṣaṇiprā́ vṛṣabhó jánānām rā́jā kṛṣṭīnā́m puruhūtá índraḥ ǀ
stutáḥ śravasyánnávasópa madrígyuktvā́ hárī vṛ́ṣaṇā́ yāhyarvā́ṅ ǁ
ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ |
stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ ||
Padapāṭha
आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॒ इति॑ । वृष॑णा । आ । या॒हि॒ । अ॒र्वाङ् ॥
आ । चर्षणिऽप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।
स्तुतः । श्रवस्यन् । अवसा । उप । मद्रिक् । युक्त्वा । हरी इति । वृषणा । आ । याहि । अर्वाङ् ॥
ā́ ǀ carṣaṇi-prā́ḥ ǀ vṛṣabháḥ ǀ jánānām ǀ rā́jā ǀ kṛṣṭīnā́m ǀ puru-hūtáḥ ǀ índraḥ ǀ
stutáḥ ǀ śravasyán ǀ ávasā ǀ úpa ǀ madrík ǀ yuktvā́ ǀ hárī íti ǀ vṛ́ṣaṇā ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǁ
ā ǀ carṣaṇi-prāḥ ǀ vṛṣabhaḥ ǀ janānām ǀ rājā ǀ kṛṣṭīnām ǀ puru-hūtaḥ ǀ indraḥ ǀ
stutaḥ ǀ śravasyan ǀ avasā ǀ upa ǀ madrik ǀ yuktvā ǀ harī iti ǀ vṛṣaṇā ǀ ā ǀ yāhi ǀ arvāṅ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.177.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.20.01
- Maṇḍala · Anuvāka · Ṛk
- 1.23.109
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.