Ṛgveda · Maṇḍala 1 · Sūkta 132

Ṛk 1.132.6

Indra · Indra, Parvata · Parucchepa Daivodāsi

The whole sūkta Link

Saṃhitā

यु॒वं तमिं॑द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तं ।
दू॒रे च॒त्ताय॑ च्छंत्स॒द्गह॑नं॒ यदिन॑क्षत् ।
अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ॥

युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् |
दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् |
अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||

yuvám támindrāparvatā puroyúdhā yó naḥ pṛtanyā́dápa táṃtamíddhatam vájreṇa táṃtamíddhatam ǀ
dūré cattā́ya cchantsadgáhanam yádínakṣat ǀ
asmā́kam śátrūnpári śūra viśváto darmā́ darṣīṣṭa viśvátaḥ ǁ

yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ-tam id dhataṃ vajreṇa taṃ-tam id dhatam |
dūre cattāya cchantsad gahanaṃ yad inakṣat |
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||

Padapāṭha

यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒ऽयुधा॑ । यः । नः॒ । पृ॒त॒न्यात् । अप॑ । तम्ऽत॑म् । इत् । ह॒त॒म् । वज्रे॑ण । तम्ऽत॑म् । इत् । ह॒त॒म् ।
दू॒रे । च॒त्ताय॑ । छ॒न्त्स॒त् । गह॑नम् । यत् । इन॑क्षत् ।
अ॒स्माक॑म् । शत्रू॑न् । परि॑ । शू॒र॒ । वि॒श्वतः॑ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः॑ ॥

युवम् । तम् । इन्द्रापर्वता । पुरःऽयुधा । यः । नः । पृतन्यात् । अप । तम्ऽतम् । इत् । हतम् । वज्रेण । तम्ऽतम् । इत् । हतम् ।
दूरे । चत्ताय । छन्त्सत् । गहनम् । यत् । इनक्षत् ।
अस्माकम् । शत्रून् । परि । शूर । विश्वतः । दर्मा । दर्षीष्ट । विश्वतः ॥

yuvám ǀ tám ǀ indrāparvatā ǀ puraḥ-yúdhā ǀ yáḥ ǀ naḥ ǀ pṛtanyā́t ǀ ápa ǀ tám-tam ǀ ít ǀ hatam ǀ vájreṇa ǀ tám-tam ǀ ít ǀ hatam ǀ
dūré ǀ cattā́ya ǀ chantsat ǀ gáhanam ǀ yát ǀ ínakṣat ǀ
asmā́kam ǀ śátrūn ǀ pári ǀ śūra ǀ viśvátaḥ ǀ darmā́ ǀ darṣīṣṭa ǀ viśvátaḥ ǁ

yuvam ǀ tam ǀ indrāparvatā ǀ puraḥ-yudhā ǀ yaḥ ǀ naḥ ǀ pṛtanyāt ǀ apa ǀ tam-tam ǀ it ǀ hatam ǀ vajreṇa ǀ tam-tam ǀ it ǀ hatam ǀ
dūre ǀ cattāya ǀ chantsat ǀ gahanam ǀ yat ǀ inakṣat ǀ
asmākam ǀ śatrūn ǀ pari ǀ śūra ǀ viśvataḥ ǀ darmā ǀ darṣīṣṭa ǀ viśvataḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.132.06
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.21.06
Maṇḍala · Anuvāka · Ṛk
1.19.053
Devatā देवता
1-5: Indra; 6: Indra, Parvata
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atyaṣṭi
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.132.6

Interpretations

Sāyaṇa

उभेपुनामीतिसप्तर्चंसप्तमंसूक्तम् पारुच्छेपमैन्द्रं आद्यात्रिष्टुप् अभिव्लग्येत्याद्यास्तिस्रोनुष्टुभःपिशं- गभृष्टिमित्येषागायत्री अवर्महइत्येषाधृतिः वनोतिहीत्यनभिधानादत्यष्टिः अत्रानुक्रमणिका—उभेस- प्तादौत्रिष्टुप् त्रिस्रोऽनुष्टुभोगायत्रीधृतिरिति । अस्यसूक्तस्यविनियोगमाहशौनकः—उभेपुनामीतिपु- रारिपुघ्र्यस्तुप्रकीर्तिताः । ताजपन्प्रयतोनित्यमिष्टान्कामान्समश्रुते । ताजपन्हन्तिरक्षांसिसपत्नांश्च- निकृन्तति ।