Ṛgveda · Maṇḍala 1 · Sūkta 132
Ṛk 1.132.2
Saṃhitā
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुधः॒ स्वस्मि॒न्नंज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नंज॑सि ।
अह॒न्निंद्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्यः॑ ।
अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्संतु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ॥
स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि |
अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः |
अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ||
svarjeṣé bhára āprásya vákmanyuṣarbúdhaḥ svásminnáñjasi krāṇásya svásminnáñjasi ǀ
áhanníndro yáthā vidé śīrṣṇā́śīrṣṇopavā́cyaḥ ǀ
asmatrā́ te sadhryáksantu rātáyo bhadrā́ bhadrásya rātáyaḥ ǁ
svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi |
ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ |
asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ ||
Padapāṭha
स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि ।
अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ ।
अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥
स्वःऽजेषे । भरे । आप्रस्य । वक्मनि । उषःऽबुधः । स्वस्मिन् । अञ्जसि । क्राणस्य । स्वस्मिन् । अञ्जसि ।
अहन् । इन्द्रः । यथा । विदे । शीर्ष्णाऽशीर्ष्णा । उपऽवाच्यः ।
अस्मऽत्रा । ते । सध्र्यक् । सन्तु । रातयः । भद्राः । भद्रस्य । रातयः ॥
svaḥ-jeṣé ǀ bháre ǀ āprásya ǀ vákmani ǀ uṣaḥ-búdhaḥ ǀ svásmin ǀ áñjasi ǀ krāṇásya ǀ svásmin ǀ áñjasi ǀ
áhan ǀ índraḥ ǀ yáthā ǀ vidé ǀ śīrṣṇā́-śīrṣṇā ǀ upa-vā́cyaḥ ǀ
asma-trā́ ǀ te ǀ sadhryák ǀ santu ǀ rātáyaḥ ǀ bhadrā́ḥ ǀ bhadrásya ǀ rātáyaḥ ǁ
svaḥ-jeṣe ǀ bhare ǀ āprasya ǀ vakmani ǀ uṣaḥ-budhaḥ ǀ svasmin ǀ añjasi ǀ krāṇasya ǀ svasmin ǀ añjasi ǀ
ahan ǀ indraḥ ǀ yathā ǀ vide ǀ śīrṣṇā-śīrṣṇā ǀ upa-vācyaḥ ǀ
asma-trā ǀ te ǀ sadhryak ǀ santu ǀ rātayaḥ ǀ bhadrāḥ ǀ bhadrasya ǀ rātayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.132.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.21.02
- Maṇḍala · Anuvāka · Ṛk
- 1.19.049
- Devatā देवता
- 1-5: Indra; 6: Indra, Parvata
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.