Ṛgveda · Maṇḍala 1 · Sūkta 132
Ṛk 1.132.1
Saṃhitā
त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इंद्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः ।
नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते ।
अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यंतो॒ भरे॑ कृ॒तं ॥
त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः |
नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते |
अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ||
tváyā vayám maghavanpū́rvye dhána índratvotāḥ sāsahyāma pṛtanyató vanuyā́ma vanuṣyatáḥ ǀ
nédiṣṭhe asmínnáhanyádhi vocā nú sunvaté ǀ
asmínyajñé ví cayemā bháre kṛtám vājayánto bháre kṛtám ǁ
tvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
nediṣṭhe asminn ahany adhi vocā nu sunvate |
asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam ||
Padapāṭha
त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । पूर्व्ये॑ । धने॑ । इन्द्र॑त्वाऽऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः ।
नेदि॑ष्ठे । अ॒स्मिन् । अह॑नि । अधि॑ । वो॒च॒ । नु । सु॒न्व॒ते ।
अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे॑ । कृ॒तम् । वा॒ज॒ऽयन्तः॑ । भरे॑ । कृ॒तम् ॥
त्वया । वयम् । मघऽवन् । पूर्व्ये । धने । इन्द्रत्वाऽऊताः । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः ।
नेदिष्ठे । अस्मिन् । अहनि । अधि । वोच । नु । सुन्वते ।
अस्मिन् । यज्ञे । वि । चयेम । भरे । कृतम् । वाजऽयन्तः । भरे । कृतम् ॥
tváyā ǀ vayám ǀ magha-van ǀ pū́rvye ǀ dháne ǀ índratvā-ūtāḥ ǀ sasahyāma ǀ pṛtanyatáḥ ǀ vanuyā́ma ǀ vanuṣyatáḥ ǀ
nédiṣṭhe ǀ asmín ǀ áhani ǀ ádhi ǀ voca ǀ nú ǀ sunvaté ǀ
asmín ǀ yajñé ǀ ví ǀ cayema ǀ bháre ǀ kṛtám ǀ vāja-yántaḥ ǀ bháre ǀ kṛtám ǁ
tvayā ǀ vayam ǀ magha-van ǀ pūrvye ǀ dhane ǀ indratvā-ūtāḥ ǀ sasahyāma ǀ pṛtanyataḥ ǀ vanuyāma ǀ vanuṣyataḥ ǀ
nediṣṭhe ǀ asmin ǀ ahani ǀ adhi ǀ voca ǀ nu ǀ sunvate ǀ
asmin ǀ yajñe ǀ vi ǀ cayema ǀ bhare ǀ kṛtam ǀ vāja-yantaḥ ǀ bhare ǀ kṛtam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.132.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.21.01
- Maṇḍala · Anuvāka · Ṛk
- 1.19.048
- Devatā देवता
- 1-5: Indra; 6: Indra, Parvata
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.