Ṛgveda · Maṇḍala 1 · Sūkta 132
Ṛk 1.132.3
Saṃhitā
तत्तु प्रयः॑ प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षयं॑ ।
वि तद्वो॑चे॒रध॑ द्वि॒तांतः प॑श्यंति र॒श्मिभिः॑ ।
स घा॑ विदे॒ अन्विंद्रो॑ ग॒वेष॑णो बंधु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् |
वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः |
स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ||
táttú práyaḥ pratnáthā te śuśukvanám yásminyajñé vā́ramákṛṇvata kṣáyamṛtásya vā́rasi kṣáyam ǀ
ví tádvocerádha dvitā́ntáḥ paśyanti raśmíbhiḥ ǀ
sá ghā vide ánvíndro gavéṣaṇo bandhukṣídbhyo gavéṣaṇaḥ ǁ
tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam |
vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ |
sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||
Padapāṭha
तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् ।
वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ ।
सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥
तत् । तु । प्रयः । प्रत्नऽथा । ते । शुशुक्वनम् । यस्मिन् । यज्ञे । वारम् । अकृण्वत । क्षयम् । ऋतस्य । वाः । असि । क्षयम् ।
वि । तत् । वोचेः । अध । द्विता । अन्तरिति । पश्यन्ति । रश्मिऽभिः ।
सः । घ । विदे । अनु । इन्द्रः । गोऽएषणः । बन्धुक्षित्ऽभ्यः । गोऽएषणः ॥
tát ǀ tú ǀ práyaḥ ǀ pratná-thā ǀ te ǀ śuśukvanám ǀ yásmin ǀ yajñé ǀ vā́ram ǀ ákṛṇvata ǀ kṣáyam ǀ ṛtásya ǀ vā́ḥ ǀ asi ǀ kṣáyam ǀ
ví ǀ tát ǀ voceḥ ǀ ádha ǀ dvitā́ ǀ antáríti ǀ paśyanti ǀ raśmí-bhiḥ ǀ
sáḥ ǀ gha ǀ vide ǀ ánu ǀ índraḥ ǀ go-éṣaṇaḥ ǀ bandhukṣít-bhyaḥ ǀ go-éṣaṇaḥ ǁ
tat ǀ tu ǀ prayaḥ ǀ pratna-thā ǀ te ǀ śuśukvanam ǀ yasmin ǀ yajñe ǀ vāram ǀ akṛṇvata ǀ kṣayam ǀ ṛtasya ǀ vāḥ ǀ asi ǀ kṣayam ǀ
vi ǀ tat ǀ voceḥ ǀ adha ǀ dvitā ǀ antariti ǀ paśyanti ǀ raśmi-bhiḥ ǀ
saḥ ǀ gha ǀ vide ǀ anu ǀ indraḥ ǀ go-eṣaṇaḥ ǀ bandhukṣit-bhyaḥ ǀ go-eṣaṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.132.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.21.03
- Maṇḍala · Anuvāka · Ṛk
- 1.19.050
- Devatā देवता
- 1-5: Indra; 6: Indra, Parvata
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.