Ṛgveda · Maṇḍala 1 · Sūkta 132
Ṛk 1.132.4
Saṃhitā
नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदंगि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिंद्र॒ शिक्ष॒न्नप॑ व्र॒जं ।
ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च ।
सु॒न्वद्भ्यो॑ रंधया॒ कं चि॑दव्र॒तं हृ॑णा॒यंतं॑ चिदव्र॒तं ॥
नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् |
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च |
सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ||
nū́ itthā́ te pūrváthā ca pravā́cyam yádáṅgirobhyó’vṛṇorápa vrajámíndra śíkṣannápa vrajám ǀ
áibhyaḥ samānyā́ diśā́smábhyam jeṣi yótsi ca ǀ
sunvádbhyo randhayā kám cidavratám hṛṇāyántam cidavratám ǁ
nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam |
aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca |
sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam ||
Padapāṭha
नु । इ॒त्था । ते॒ । पू॒र्वऽथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् ।
आ । ए॒भ्यः॒ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ ।
सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥
नु । इत्था । ते । पूर्वऽथा । च । प्रऽवाच्यम् । यत् । अङ्गिरःऽभ्यः । अवृणोः । अप । व्रजम् । इन्द्र । शिक्षन् । अप । व्रजम् ।
आ । एभ्यः । समान्या । दिशा । अस्मभ्यम् । जेषि । योत्सि । च ।
सुन्वत्ऽभ्यः । रन्धय । कम् । चित् । अव्रतम् । हृणायन्तम् । चित् । अव्रतम् ॥
nú ǀ itthā́ ǀ te ǀ pūrvá-thā ǀ ca ǀ pra-vā́cyam ǀ yát ǀ áṅgiraḥ-bhyaḥ ǀ ávṛṇoḥ ǀ ápa ǀ vrajám ǀ índra ǀ śíkṣan ǀ ápa ǀ vrajám ǀ
ā́ ǀ ebhyaḥ ǀ samānyā́ ǀ diśā́ ǀ asmábhyam ǀ jeṣi ǀ yótsi ǀ ca ǀ
sunvát-bhyaḥ ǀ randhaya ǀ kám ǀ cit ǀ avratám ǀ hṛṇāyántam ǀ cit ǀ avratám ǁ
nu ǀ itthā ǀ te ǀ pūrva-thā ǀ ca ǀ pra-vācyam ǀ yat ǀ aṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ apa ǀ vrajam ǀ indra ǀ śikṣan ǀ apa ǀ vrajam ǀ
ā ǀ ebhyaḥ ǀ samānyā ǀ diśā ǀ asmabhyam ǀ jeṣi ǀ yotsi ǀ ca ǀ
sunvat-bhyaḥ ǀ randhaya ǀ kam ǀ cit ǀ avratam ǀ hṛṇāyantam ǀ cit ǀ avratam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.132.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.21.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.051
- Devatā देवता
- 1-5: Indra; 6: Indra, Parvata
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.