Ṛk 1.72.2
Saṃhitā
अ॒स्मे व॒त्सं परि॒ षंतं॒ न विं॑दन्नि॒च्छंतो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः |
श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ||
asmé vatsám pári ṣántam ná vindannicchánto víśve amṛ́tā ámūrāḥ ǀ
śramayúvaḥ padavyó dhiyaṃdhā́stasthúḥ padé paramé cā́rvagnéḥ ǁ
asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ |
śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ ||
Padapāṭha
अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः ।
श्र॒म॒ऽयुवः॑ । प॒द॒ऽव्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥
अस्मे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्वे । अमृताः । अमूराः ।
श्रमऽयुवः । पदऽव्यः । धियम्ऽधाः । तस्थुः । पदे । परमे । चारु । अग्नेः ॥
asmé íti ǀ vatsám ǀ pári ǀ sántam ǀ ná ǀ vindan ǀ icchántaḥ ǀ víśve ǀ amṛ́tāḥ ǀ ámūrāḥ ǀ
śrama-yúvaḥ ǀ pada-vyáḥ ǀ dhiyam-dhā́ḥ ǀ tasthúḥ ǀ padé ǀ paramé ǀ cā́ru ǀ agnéḥ ǁ
asme iti ǀ vatsam ǀ pari ǀ santam ǀ na ǀ vindan ǀ icchantaḥ ǀ viśve ǀ amṛtāḥ ǀ amūrāḥ ǀ
śrama-yuvaḥ ǀ pada-vyaḥ ǀ dhiyam-dhāḥ ǀ tasthuḥ ǀ pade ǀ parame ǀ cāru ǀ agneḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.072.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.17.02
- Maṇḍala · Anuvāka · Ṛk
- 1.12.073
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.