Ṛk 1.72.9
Saṃhitā
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं ।
म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् |
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ||
ā́ yé víśvā svapatyā́ni tasthúḥ kṛṇvānā́so amṛtatvā́ya gātúm ǀ
mahnā́ mahádbhiḥ pṛthivī́ ví tasthe mātā́ putráiráditirdhā́yase véḥ ǁ
ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ ||
Padapāṭha
आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।
म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेरिति॒ वेः ॥
आ । ये । विश्वा । सुऽअपत्यानि । तस्थुः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।
मह्ना । महत्ऽभिः । पृथिवी । वि । तस्थे । माता । पुत्रैः । अदितिः । धायसे । वेरिति वेः ॥
ā́ ǀ yé ǀ víśvā ǀ su-apatyā́ni ǀ tasthúḥ ǀ kṛṇvānā́saḥ ǀ amṛta-tvā́ya ǀ gātúm ǀ
mahnā́ ǀ mahát-bhiḥ ǀ pṛthivī́ ǀ ví ǀ tasthe ǀ mātā́ ǀ putráiḥ ǀ áditiḥ ǀ dhā́yase ǀ véríti véḥ ǁ
ā ǀ ye ǀ viśvā ǀ su-apatyāni ǀ tasthuḥ ǀ kṛṇvānāsaḥ ǀ amṛta-tvāya ǀ gātum ǀ
mahnā ǀ mahat-bhiḥ ǀ pṛthivī ǀ vi ǀ tasthe ǀ mātā ǀ putraiḥ ǀ aditiḥ ǀ dhāyase ǀ veriti veḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.072.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.18.04
- Maṇḍala · Anuvāka · Ṛk
- 1.12.080
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.