Ṛk 1.72.10
Saṃhitā
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिंदि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
अध॑ क्षरंति॒ सिंध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् |
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ||
ádhi śríyam ní dadhuścā́rumasmindivó yádakṣī́ amṛ́tā ákṛṇvan ǀ
ádha kṣaranti síndhavo ná sṛṣṭā́ḥ prá nī́cīragne áruṣīrajānan ǁ
adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan |
adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan ||
Padapāṭha
अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् ।
अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥
अधि । श्रियम् । नि । दधुः । चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् ।
अध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र । नीचीः । अग्ने । अरुषीः । अजानन् ॥
ádhi ǀ śríyam ǀ ní ǀ dadhuḥ ǀ cā́rum ǀ asmin ǀ diváḥ ǀ yát ǀ akṣī́ íti ǀ amṛ́tāḥ ǀ ákṛṇvan ǀ
ádha ǀ kṣaranti ǀ síndhavaḥ ǀ ná ǀ sṛṣṭā́ḥ ǀ prá ǀ nī́cīḥ ǀ agne ǀ áruṣīḥ ǀ ajānan ǁ
adhi ǀ śriyam ǀ ni ǀ dadhuḥ ǀ cārum ǀ asmin ǀ divaḥ ǀ yat ǀ akṣī iti ǀ amṛtāḥ ǀ akṛṇvan ǀ
adha ǀ kṣaranti ǀ sindhavaḥ ǀ na ǀ sṛṣṭāḥ ǀ pra ǀ nīcīḥ ǀ agne ǀ aruṣīḥ ǀ ajānan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.072.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.18.05
- Maṇḍala · Anuvāka · Ṛk
- 1.12.081
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.