Ṛk 1.72.6
Saṃhitā
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
तेभी॑ रक्षंते अ॒मृतं॑ स॒जोषाः॑ प॒शूंच॑ स्था॒तॄंच॒रथं॑ च पाहि ॥
त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः |
तेभी रक्षन्ते अमृतं सजोषाः पशूञ् च स्थातॄञ् चरथं च पाहि ||
tríḥ saptá yádgúhyāni tvé ítpadā́vidanníhitā yajñíyāsaḥ ǀ
tébhī rakṣante amṛ́tam sajóṣāḥ paśū́ñca sthātṝ́ñcarátham ca pāhi ǁ
triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ |
tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi ||
Padapāṭha
त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ता । य॒ज्ञिया॑सः ।
तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥
त्रिः । सप्त । यत् । गुह्यानि । त्वे इति । इत् । पदा । अविदन् । निऽहिता । यज्ञियासः ।
तेभिः । रक्षन्ते । अमृतम् । सऽजोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि ॥
tríḥ ǀ saptá ǀ yát ǀ gúhyāni ǀ tvé íti ǀ ít ǀ padā́ ǀ avidan ǀ ní-hitā ǀ yajñíyāsaḥ ǀ
tébhiḥ ǀ rakṣante ǀ amṛ́tam ǀ sa-jóṣāḥ ǀ paśū́n ǀ ca ǀ sthātṝ́n ǀ carátham ǀ ca ǀ pāhi ǁ
triḥ ǀ sapta ǀ yat ǀ guhyāni ǀ tve iti ǀ it ǀ padā ǀ avidan ǀ ni-hitā ǀ yajñiyāsaḥ ǀ
tebhiḥ ǀ rakṣante ǀ amṛtam ǀ sa-joṣāḥ ǀ paśūn ǀ ca ǀ sthātṝn ǀ caratham ǀ ca ǀ pāhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.072.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.18.01
- Maṇḍala · Anuvāka · Ṛk
- 1.12.077
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.