Ṛk 1.71.3
Saṃhitā
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः ।
अतृ॑ष्यंतीर॒पसो॑ यं॒त्यच्छा॑ दे॒वांजन्म॒ प्रय॑सा व॒र्धयं॑तीः ॥
दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः |
अतृष्यन्तीर् अपसो यन्त्य् अच्छा देवाञ् जन्म प्रयसा वर्धयन्तीः ||
dádhannṛtám dhanáyannasya dhītímā́dídaryó didhiṣvó víbhṛtrāḥ ǀ
átṛṣyantīrapáso yantyácchā devā́ñjánma práyasā vardháyantīḥ ǁ
dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ |
atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ ||
Padapāṭha
दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । दि॒धि॒ष्वः॑ । विऽभृ॑त्राः ।
अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति॒ । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥
दधन् । ऋतम् । धनयन् । अस्य । धीतिम् । आत् । इत् । अर्यः । दिधिष्वः । विऽभृत्राः ।
अतृष्यन्तीः । अपसः । यन्ति । अच्छ । देवान् । जन्म । प्रयसा । वर्धयन्तीः ॥
dádhan ǀ ṛtám ǀ dhanáyan ǀ asya ǀ dhītím ǀ ā́t ǀ ít ǀ aryáḥ ǀ didhiṣváḥ ǀ ví-bhṛtrāḥ ǀ
átṛṣyantīḥ ǀ apásaḥ ǀ yanti ǀ áccha ǀ devā́n ǀ jánma ǀ práyasā ǀ vardháyantīḥ ǁ
dadhan ǀ ṛtam ǀ dhanayan ǀ asya ǀ dhītim ǀ āt ǀ it ǀ aryaḥ ǀ didhiṣvaḥ ǀ vi-bhṛtrāḥ ǀ
atṛṣyantīḥ ǀ apasaḥ ǀ yanti ǀ accha ǀ devān ǀ janma ǀ prayasā ǀ vardhayantīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.071.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.15.03
- Maṇḍala · Anuvāka · Ṛk
- 1.12.064
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.