Ṛk 1.71.5
Saṃhitā
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् |
सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ||
mahé yátpitrá īm rásam divé káráva tsaratpṛśanyáścikitvā́n ǀ
sṛjádástā dhṛṣatā́ didyúmasmai svā́yām devó duhitári tvíṣim dhāt ǁ
mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān |
sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt ||
Padapāṭha
म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् ।
सृ॒जत् । अस्ता॑ । धृ॒ष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥
महे । यत् । पित्रे । ईम् । रसम् । दिवे । कः । अव । त्सरत् । पृशन्यः । चिकित्वान् ।
सृजत् । अस्ता । धृषता । दिद्युम् । अस्मै । स्वायाम् । देवः । दुहितरि । त्विषिम् । धात् ॥
mahé ǀ yát ǀ pitré ǀ īm ǀ rásam ǀ divé ǀ káḥ ǀ áva ǀ tsarat ǀ pṛśanyáḥ ǀ cikitvā́n ǀ
sṛját ǀ ástā ǀ dhṛṣatā́ ǀ didyúm ǀ asmai ǀ svā́yām ǀ deváḥ ǀ duhitári ǀ tvíṣim ǀ dhāt ǁ
mahe ǀ yat ǀ pitre ǀ īm ǀ rasam ǀ dive ǀ kaḥ ǀ ava ǀ tsarat ǀ pṛśanyaḥ ǀ cikitvān ǀ
sṛjat ǀ astā ǀ dhṛṣatā ǀ didyum ǀ asmai ǀ svāyām ǀ devaḥ ǀ duhitari ǀ tviṣim ǀ dhāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.071.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.15.05
- Maṇḍala · Anuvāka · Ṛk
- 1.12.066
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.