Ṛk 1.71.6
Saṃhitā
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् |
वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ||
svá ā́ yástúbhyam dáma ā́ vibhā́ti námo vā dā́śāduśató ánu dyū́n ǀ
várdho agne váyo asya dvibárhā yā́sadrāyā́ sarátham yám junā́si ǁ
sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn |
vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi ||
Padapāṭha
स्वे । आ । यः । तुभ्य॑म् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ । वा॒ । दाशा॑त् । उ॒श॒तः । अनु॑ । द्यून् ।
वर्धः॑ । अ॒ग्ने॒ । वयः॑ । अ॒स्य॒ । द्वि॒ऽबर्हाः॑ । यास॑त् । रा॒या । स॒ऽरथ॑म् । यम् । जु॒नासि॑ ॥
स्वे । आ । यः । तुभ्यम् । दमे । आ । विऽभाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् ।
वर्धः । अग्ने । वयः । अस्य । द्विऽबर्हाः । यासत् । राया । सऽरथम् । यम् । जुनासि ॥
své ǀ ā́ ǀ yáḥ ǀ túbhyam ǀ dáme ǀ ā́ ǀ vi-bhā́ti ǀ námaḥ ǀ vā ǀ dā́śāt ǀ uśatáḥ ǀ ánu ǀ dyū́n ǀ
várdhaḥ ǀ agne ǀ váyaḥ ǀ asya ǀ dvi-bárhāḥ ǀ yā́sat ǀ rāyā́ ǀ sa-rátham ǀ yám ǀ junā́si ǁ
sve ǀ ā ǀ yaḥ ǀ tubhyam ǀ dame ǀ ā ǀ vi-bhāti ǀ namaḥ ǀ vā ǀ dāśāt ǀ uśataḥ ǀ anu ǀ dyūn ǀ
vardhaḥ ǀ agne ǀ vayaḥ ǀ asya ǀ dvi-barhāḥ ǀ yāsat ǀ rāyā ǀ sa-ratham ǀ yam ǀ junāsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.071.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.12.067
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.