Ṛk 1.71.4
Saṃhitā
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् |
आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ||
máthīdyádīm víbhṛto mātaríśvā gṛhégṛhe śyetó jényo bhū́t ǀ
ā́dīm rā́jñe ná sáhīyase sácā sánnā́ dūtyám bhṛ́gavāṇo vivāya ǁ
mathīd yad īṃ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt |
ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya ||
Padapāṭha
मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् ।
आत् । ई॒म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥
मथीत् । यत् । ईम् । विऽभृतः । मातरिश्वा । गृहेऽगृहे । श्येतः । जेन्यः । भूत् ।
आत् । ईम् । राज्ञे । न । सहीयसे । सचा । सन् । आ । दूत्यम् । भृगवाणः । विवाय ॥
máthīt ǀ yát ǀ īm ǀ ví-bhṛtaḥ ǀ mātaríśvā ǀ gṛhé-gṛhe ǀ śyetáḥ ǀ jényaḥ ǀ bhū́t ǀ
ā́t ǀ īm ǀ rā́jñe ǀ ná ǀ sáhīyase ǀ sácā ǀ sán ǀ ā́ ǀ dūtyám ǀ bhṛ́gavāṇaḥ ǀ vivāya ǁ
mathīt ǀ yat ǀ īm ǀ vi-bhṛtaḥ ǀ mātariśvā ǀ gṛhe-gṛhe ǀ śyetaḥ ǀ jenyaḥ ǀ bhūt ǀ
āt ǀ īm ǀ rājñe ǀ na ǀ sahīyase ǀ sacā ǀ san ǀ ā ǀ dūtyam ǀ bhṛgavāṇaḥ ǀ vivāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.071.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.15.04
- Maṇḍala · Anuvāka · Ṛk
- 1.12.065
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.