Ṛk 1.32.13
Saṃhitā
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
इंद्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च |
इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ||
nā́smai vidyúnná tanyatúḥ siṣedha ná yā́m míhamákiraddhrādúnim ca ǀ
índraśca yádyuyudhā́te áhiścotā́parī́bhyo maghávā ví jigye ǁ
nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṃ ca |
indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||
Padapāṭha
न । अ॒स्मै॒ । वि॒ऽद्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ ।
इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घऽवा॑ । वि । जि॒ग्ये॒ ॥
न । अस्मै । विऽद्युत् । न । तन्यतुः । सिसेध । न । याम् । मिहम् । अकिरत् । ह्रादुनिम् । च ।
इन्द्रः । च । यत् । युयुधाते इति । अहिः । च । उत । अपरीभ्यः । मघऽवा । वि । जिग्ये ॥
ná ǀ asmai ǀ vi-dyút ǀ ná ǀ tanyatúḥ ǀ sisedha ǀ ná ǀ yā́m ǀ míham ǀ ákirat ǀ hrādúnim ǀ ca ǀ
índraḥ ǀ ca ǀ yát ǀ yuyudhā́te íti ǀ áhiḥ ǀ ca ǀ utá ǀ aparī́bhyaḥ ǀ maghá-vā ǀ ví ǀ jigye ǁ
na ǀ asmai ǀ vi-dyut ǀ na ǀ tanyatuḥ ǀ sisedha ǀ na ǀ yām ǀ miham ǀ akirat ǀ hrādunim ǀ ca ǀ
indraḥ ǀ ca ǀ yat ǀ yuyudhāte iti ǀ ahiḥ ǀ ca ǀ uta ǀ aparībhyaḥ ǀ magha-vā ǀ vi ǀ jigye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.38.03
- Maṇḍala · Anuvāka · Ṛk
- 01.07.031
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.