Ṛk 1.32.2
Saṃhitā
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष ।
वा॒श्रा इ॑व धे॒नवः॒ स्यंद॑माना॒ अंजः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष |
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ||
áhannáhim párvate śiśriyāṇám tváṣṭāsmai vájram svaryám tatakṣa ǀ
vāśrā́ iva dhenávaḥ syándamānā áñjaḥ samudrámáva jagmurā́paḥ ǁ
ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||
Padapāṭha
अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ ।
वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥
अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष ।
वाश्राःऽइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥
áhan ǀ áhim ǀ párvate ǀ śiśriyāṇám ǀ tváṣṭā ǀ asmai ǀ vájram ǀ svaryám ǀ tatakṣa ǀ
vāśrā́ḥ-iva ǀ dhenávaḥ ǀ syándamānāḥ ǀ áñjaḥ ǀ samudrám ǀ áva ǀ jagmuḥ ǀ ā́paḥ ǁ
ahan ǀ ahim ǀ parvate ǀ śiśriyāṇam ǀ tvaṣṭā ǀ asmai ǀ vajram ǀ svaryam ǀ tatakṣa ǀ
vāśrāḥ-iva ǀ dhenavaḥ ǀ syandamānāḥ ǀ añjaḥ ǀ samudram ǀ ava ǀ jagmuḥ ǀ āpaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.36.02
- Maṇḍala · Anuvāka · Ṛk
- 01.07.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.