Ṛk 1.32.6
Saṃhitā
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षं ।
नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इंद्र॑शत्रुः ॥
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् |
नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ||
ayoddhéva durmáda ā́ hí juhvé mahāvīrám tuvibādhámṛjīṣám ǀ
nā́tārīdasya sámṛtim vadhā́nām sám rujā́nāḥ pipiṣa índraśatruḥ ǁ
ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam |
nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||
Padapāṭha
अ॒यो॒द्धाऽइ॑व । दुः॒ऽमदः॑ । आ । हि । जु॒ह्वे । म॒हा॒ऽवी॒रम् । तु॒वि॒ऽबा॒धम् । ऋ॒जी॒षम् ।
न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऽऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑ऽशत्रुः ॥
अयोद्धाऽइव । दुःऽमदः । आ । हि । जुह्वे । महाऽवीरम् । तुविऽबाधम् । ऋजीषम् ।
न । अतारीत् । अस्य । सम्ऽऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्रऽशत्रुः ॥
ayoddhā́-iva ǀ duḥ-mádaḥ ǀ ā́ ǀ hí ǀ juhvé ǀ mahā-vīrám ǀ tuvi-bādhám ǀ ṛjīṣám ǀ
ná ǀ atārīt ǀ asya ǀ sám-ṛtim ǀ vadhā́nām ǀ sám ǀ rujā́nāḥ ǀ pipiṣe ǀ índra-śatruḥ ǁ
ayoddhā-iva ǀ duḥ-madaḥ ǀ ā ǀ hi ǀ juhve ǀ mahā-vīram ǀ tuvi-bādham ǀ ṛjīṣam ǀ
na ǀ atārīt ǀ asya ǀ sam-ṛtim ǀ vadhānām ǀ sam ǀ rujānāḥ ǀ pipiṣe ǀ indra-śatruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.37.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.024
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.