Ṛk 1.32.11
Saṃhitā
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ ।
अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः |
अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ||
dāsápatnīráhigopā atiṣṭhanníruddhā ā́paḥ paṇíneva gā́vaḥ ǀ
apā́m bílamápihitam yádā́sīdvṛtrám jaghanvā́m̐ ápa tádvavāra ǁ
dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ |
apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṃ apa tad vavāra ||
Padapāṭha
दा॒सऽप॑त्नीः । अहि॑ऽगोपाः । अ॒ति॒ष्ठ॒न् । निऽरु॑द्धाः । आपः॑ । प॒णिना॑ऽइव । गावः॑ ।
अ॒पाम् । बिल॑म् । अपि॑ऽहितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒ ॥
दासऽपत्नीः । अहिऽगोपाः । अतिष्ठन् । निऽरुद्धाः । आपः । पणिनाऽइव । गावः ।
अपाम् । बिलम् । अपिऽहितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार ॥
dāsá-patnīḥ ǀ áhi-gopāḥ ǀ atiṣṭhan ǀ ní-ruddhāḥ ǀ ā́paḥ ǀ paṇínā-iva ǀ gā́vaḥ ǀ
apā́m ǀ bílam ǀ ápi-hitam ǀ yát ǀ ā́sīt ǀ vṛtrám ǀ jaghanvā́n ǀ ápa ǀ tát ǀ vavāra ǁ
dāsa-patnīḥ ǀ ahi-gopāḥ ǀ atiṣṭhan ǀ ni-ruddhāḥ ǀ āpaḥ ǀ paṇinā-iva ǀ gāvaḥ ǀ
apām ǀ bilam ǀ api-hitam ǀ yat ǀ āsīt ǀ vṛtram ǀ jaghanvān ǀ apa ǀ tat ǀ vavāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.38.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.