Ṛk 1.32.8
Saṃhitā
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ यं॒त्यापः॑ ।
याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥
नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः |
याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ||
nadám ná bhinnámamuyā́ śáyānam máno rúhāṇā áti yantyā́paḥ ǀ
yā́ścidvṛtró mahinā́ paryátiṣṭhattā́sāmáhiḥ patsutaḥśī́rbabhūva ǁ
nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ |
yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva ||
Padapāṭha
न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ ।
याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥
नदम् । न । भिन्नम् । अमुया । शयानम् । मनः । रुहाणाः । अति । यन्ति । आपः ।
याः । चित् । वृत्रः । महिना । परिऽअतिष्ठत् । तासाम् । अहिः । पत्सुतःशीः । बभूव ॥
nadám ǀ ná ǀ bhinnám ǀ amuyā́ ǀ śáyānam ǀ mánaḥ ǀ rúhāṇāḥ ǀ áti ǀ yanti ǀ ā́paḥ ǀ
yā́ḥ ǀ cit ǀ vṛtráḥ ǀ mahinā́ ǀ pari-átiṣṭhat ǀ tā́sām ǀ áhiḥ ǀ patsutaḥśī́ḥ ǀ babhūva ǁ
nadam ǀ na ǀ bhinnam ǀ amuyā ǀ śayānam ǀ manaḥ ǀ ruhāṇāḥ ǀ ati ǀ yanti ǀ āpaḥ ǀ
yāḥ ǀ cit ǀ vṛtraḥ ǀ mahinā ǀ pari-atiṣṭhat ǀ tāsām ǀ ahiḥ ǀ patsutaḥśīḥ ǀ babhūva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.37.03
- Maṇḍala · Anuvāka · Ṛk
- 01.07.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.