Ṛk 1.32.14
Saṃhitā
अहे॑र्या॒तारं॒ कम॑पश्य इंद्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
नव॑ च॒ यन्न॑व॒तिं च॒ स्रवं॑तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् |
नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ||
áheryātā́ram kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat ǀ
náva ca yánnavatím ca srávantīḥ śyenó ná bhītó átaro rájāṃsi ǁ
aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat |
nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi ||
Padapāṭha
अहेः॑ । या॒तार॑म् । कम् । अ॒प॒श्यः॒ । इ॒न्द्र॒ । हृ॒दि । यत् । ते॒ । ज॒घ्नुषः॑ । भीः । अग॑च्छत् ।
नव॑ । च॒ । यम् । न॒व॒तिम् । च॒ । स्रव॑न्तीः । श्ये॒नः । न । भी॒तः । अत॑रः । रजां॑सि ॥
अहेः । यातारम् । कम् । अपश्यः । इन्द्र । हृदि । यत् । ते । जघ्नुषः । भीः । अगच्छत् ।
नव । च । यम् । नवतिम् । च । स्रवन्तीः । श्येनः । न । भीतः । अतरः । रजांसि ॥
áheḥ ǀ yātā́ram ǀ kám ǀ apaśyaḥ ǀ indra ǀ hṛdí ǀ yát ǀ te ǀ jaghnúṣaḥ ǀ bhī́ḥ ǀ ágacchat ǀ
náva ǀ ca ǀ yám ǀ navatím ǀ ca ǀ srávantīḥ ǀ śyenáḥ ǀ ná ǀ bhītáḥ ǀ átaraḥ ǀ rájāṃsi ǁ
aheḥ ǀ yātāram ǀ kam ǀ apaśyaḥ ǀ indra ǀ hṛdi ǀ yat ǀ te ǀ jaghnuṣaḥ ǀ bhīḥ ǀ agacchat ǀ
nava ǀ ca ǀ yam ǀ navatim ǀ ca ǀ sravantīḥ ǀ śyenaḥ ǀ na ǀ bhītaḥ ǀ ataraḥ ǀ rajāṃsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.38.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.032
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.