Ṛk 1.32.4
Saṃhitā
यदिं॒द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः ।
आत्सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः |
आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ||
yádindrā́hanprathamajā́máhīnāmā́nmāyínāmámināḥ prótá māyā́ḥ ǀ
ā́tsū́ryam janáyandyā́muṣā́sam tādī́tnā śátrum ná kílā vivitse ǁ
yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ |
āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse ||
Padapāṭha
यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः ।
आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किल॑ । वि॒वि॒त्से॒ ॥
यत् । इन्द्र । अहन् । प्रथमऽजाम् । अहीनाम् । आत् । मायिनाम् । अमिनाः । प्र । उत । मायाः ।
आत् । सूर्यम् । जनयन् । द्याम् । उषसम् । तादीत्ना । शत्रुम् । न । किल । विवित्से ॥
yát ǀ indra ǀ áhan ǀ prathama-jā́m ǀ áhīnām ǀ ā́t ǀ māyínām ǀ ámināḥ ǀ prá ǀ utá ǀ māyā́ḥ ǀ
ā́t ǀ sū́ryam ǀ janáyan ǀ dyā́m ǀ uṣásam ǀ tādī́tnā ǀ śátrum ǀ ná ǀ kíla ǀ vivitse ǁ
yat ǀ indra ǀ ahan ǀ prathama-jām ǀ ahīnām ǀ āt ǀ māyinām ǀ amināḥ ǀ pra ǀ uta ǀ māyāḥ ǀ
āt ǀ sūryam ǀ janayan ǀ dyām ǀ uṣasam ǀ tādītnā ǀ śatrum ǀ na ǀ kila ǀ vivitse ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.36.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.022
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.