Ṛk 1.32.10
Saṃhitā
अति॑ष्ठंतीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रं ।
वृ॒त्रस्य॑ नि॒ण्यं वि च॑रं॒त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिंद्र॑शत्रुः ॥
अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं शरीरम् |
वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ||
átiṣṭhantīnāmaniveśanā́nām kā́ṣṭhānām mádhye níhitam śárīram ǀ
vṛtrásya niṇyám ví carantyā́po dīrghám táma ā́śayadíndraśatruḥ ǁ
atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram |
vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ ||
Padapāṭha
अति॑ष्ठन्तीनाम् । अ॒नि॒ऽवे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निऽहि॑तम् । शरी॑रम् ।
वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑ऽशत्रुः ॥
अतिष्ठन्तीनाम् । अनिऽवेशनानाम् । काष्ठानाम् । मध्ये । निऽहितम् । शरीरम् ।
वृत्रस्य । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्रऽशत्रुः ॥
átiṣṭhantīnām ǀ ani-veśanā́nām ǀ kā́ṣṭhānām ǀ mádhye ǀ ní-hitam ǀ śárīram ǀ
vṛtrásya ǀ niṇyám ǀ ví ǀ caranti ǀ ā́paḥ ǀ dīrghám ǀ támaḥ ǀ ā́ ǀ aśayat ǀ índra-śatruḥ ǁ
atiṣṭhantīnām ǀ ani-veśanānām ǀ kāṣṭhānām ǀ madhye ǀ ni-hitam ǀ śarīram ǀ
vṛtrasya ǀ niṇyam ǀ vi ǀ caranti ǀ āpaḥ ǀ dīrgham ǀ tamaḥ ǀ ā ǀ aśayat ǀ indra-śatruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.37.05
- Maṇḍala · Anuvāka · Ṛk
- 01.07.028
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.