Ṛk 1.32.3
Saṃhitā
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नां ॥
वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य |
आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ||
vṛṣāyámāṇo’vṛṇīta sómam tríkadrukeṣvapibatsutásya ǀ
ā́ sā́yakam maghávādatta vájramáhannenam prathamajā́máhīnām ǁ
vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya |
ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||
Padapāṭha
वृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ ।
आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥
वृषऽयमाणः । अवृणीत । सोमम् । त्रिऽकद्रुकेषु । अपिबत् । सुतस्य ।
आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमऽजाम् । अहीनाम् ॥
vṛṣa-yámāṇaḥ ǀ avṛṇīta ǀ sómam ǀ trí-kadrukeṣu ǀ apibat ǀ sutásya ǀ
ā́ ǀ sā́yakam ǀ maghávā ǀ adatta ǀ vájram ǀ áhan ǀ enam ǀ prathama-jā́m ǀ áhīnām ǁ
vṛṣa-yamāṇaḥ ǀ avṛṇīta ǀ somam ǀ tri-kadrukeṣu ǀ apibat ǀ sutasya ǀ
ā ǀ sāyakam ǀ maghavā ǀ adatta ǀ vajram ǀ ahan ǀ enam ǀ prathama-jām ǀ ahīnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.36.03
- Maṇḍala · Anuvāka · Ṛk
- 01.07.021
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.