Ṛk 1.32.5
Saṃhitā
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिंद्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कंधां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥
अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन |
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ||
áhanvṛtrám vṛtratáram vyáṃsamíndro vájreṇa mahatā́ vadhéna ǀ
skándhāṃsīva kúliśenā vívṛkṇā́hiḥ śayata upapṛ́kpṛthivyā́ḥ ǁ
ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena |
skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||
Padapāṭha
अह॑न् । वृ॒त्रम् । वृ॒त्र॒ऽतर॑म् । विऽअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ ।
स्कन्धां॑सिऽइव । कुलि॑शेन । विऽवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒ऽपृक् । पृ॒थि॒व्याः ॥
अहन् । वृत्रम् । वृत्रऽतरम् । विऽअंसम् । इन्द्रः । वज्रेण । महता । वधेन ।
स्कन्धांसिऽइव । कुलिशेन । विऽवृक्णा । अहिः । शयते । उपऽपृक् । पृथिव्याः ॥
áhan ǀ vṛtrám ǀ vṛtra-táram ǀ ví-aṃsam ǀ índraḥ ǀ vájreṇa ǀ mahatā́ ǀ vadhéna ǀ
skándhāṃsi-iva ǀ kúliśena ǀ ví-vṛkṇā ǀ áhiḥ ǀ śayate ǀ upa-pṛ́k ǀ pṛthivyā́ḥ ǁ
ahan ǀ vṛtram ǀ vṛtra-taram ǀ vi-aṃsam ǀ indraḥ ǀ vajreṇa ǀ mahatā ǀ vadhena ǀ
skandhāṃsi-iva ǀ kuliśena ǀ vi-vṛkṇā ǀ ahiḥ ǀ śayate ǀ upa-pṛk ǀ pṛthivyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.032.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.36.05
- Maṇḍala · Anuvāka · Ṛk
- 01.07.023
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.