Ṛk 2.1.15
Saṃhitā
त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।
पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥
त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे |
पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ||
tvám tā́nsám ca práti cāsi majmánā́gne sujāta prá ca deva ricyase ǀ
pṛkṣó yádátra mahinā́ ví te bhúvadánu dyā́vāpṛthivī́ ródasī ubhé ǁ
tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe ||
Padapāṭha
त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।
पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥
त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सुऽजात । प्र । च । देव । रिच्यसे ।
पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति ॥
tvám ǀ tā́n ǀ sám ǀ ca ǀ práti ǀ ca ǀ asi ǀ majmánā ǀ ágne ǀ su-jāta ǀ prá ǀ ca ǀ deva ǀ ricyase ǀ
pṛkṣáḥ ǀ yát ǀ átra ǀ mahinā́ ǀ ví ǀ te ǀ bhúvat ǀ ánu ǀ dyā́vāpṛthivī́ íti ǀ ródasī íti ǀ ubhé íti ǁ
tvam ǀ tān ǀ sam ǀ ca ǀ prati ǀ ca ǀ asi ǀ majmanā ǀ agne ǀ su-jāta ǀ pra ǀ ca ǀ deva ǀ ricyase ǀ
pṛkṣaḥ ǀ yat ǀ atra ǀ mahinā ǀ vi ǀ te ǀ bhuvat ǀ anu ǀ dyāvāpṛthivī iti ǀ rodasī iti ǀ ubhe iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.001.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.19.05
- Maṇḍala · Anuvāka · Ṛk
- 02.01.015
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.