Ṛk 2.1.12
Saṃhitā
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।
त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥
त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः |
त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ||
tvámagne súbhṛta uttamám váyastáva spārhé várṇa ā́ saṃdṛ́śi śríyaḥ ǀ
tvám vā́jaḥ pratáraṇo bṛhánnasi tvám rayírbahuló viśvátaspṛthúḥ ǁ
tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ |
tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ ।
त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥
त्वम् । अग्ने । सुऽभृतः । उत्ऽतमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्ऽदृशि । श्रियः ।
त्वम् । वाजः । प्रऽतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥
tvám ǀ agne ǀ sú-bhṛtaḥ ǀ ut-tamám ǀ váyaḥ ǀ táva ǀ spārhé ǀ várṇe ǀ ā́ ǀ sam-dṛ́śi ǀ śríyaḥ ǀ
tvám ǀ vā́jaḥ ǀ pra-táraṇaḥ ǀ bṛhán ǀ asi ǀ tvám ǀ rayíḥ ǀ bahuláḥ ǀ viśvátaḥ ǀ pṛthúḥ ǁ
tvam ǀ agne ǀ su-bhṛtaḥ ǀ ut-tamam ǀ vayaḥ ǀ tava ǀ spārhe ǀ varṇe ǀ ā ǀ sam-dṛśi ǀ śriyaḥ ǀ
tvam ǀ vājaḥ ǀ pra-taraṇaḥ ǀ bṛhan ǀ asi ǀ tvam ǀ rayiḥ ǀ bahulaḥ ǀ viśvataḥ ǀ pṛthuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.001.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.19.02
- Maṇḍala · Anuvāka · Ṛk
- 02.01.012
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.