Ṛk 2.1.7
Saṃhitā
त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।
त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥
त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि |
त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ||
tvámagne draviṇodā́ araṃkṛ́te tvám deváḥ savitā́ ratnadhā́ asi ǀ
tvám bhágo nṛpate vásva īśiṣe tvám pāyúrdáme yásté’vidhat ǁ
tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi |
tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ ।
त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥
त्वम् । अग्ने । द्रविणःऽदाः । अरम्ऽकृते । त्वम् । देवः । सविता । रत्नऽधाः । असि ।
त्वम् । भगः । नृऽपते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत् ॥
tvám ǀ agne ǀ draviṇaḥ-dā́ḥ ǀ aram-kṛ́te ǀ tvám ǀ deváḥ ǀ savitā́ ǀ ratna-dhā́ḥ ǀ asi ǀ
tvám ǀ bhágaḥ ǀ nṛ-pate ǀ vásvaḥ ǀ īśiṣe ǀ tvám ǀ pāyúḥ ǀ dáme ǀ yáḥ ǀ te ǀ ávidhat ǁ
tvam ǀ agne ǀ draviṇaḥ-dāḥ ǀ aram-kṛte ǀ tvam ǀ devaḥ ǀ savitā ǀ ratna-dhāḥ ǀ asi ǀ
tvam ǀ bhagaḥ ǀ nṛ-pate ǀ vasvaḥ ǀ īśiṣe ǀ tvam ǀ pāyuḥ ǀ dame ǀ yaḥ ǀ te ǀ avidhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.001.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.18.02
- Maṇḍala · Anuvāka · Ṛk
- 02.01.007
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.