Ṛk 2.1.6
Saṃhitā
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥
त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे |
त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ||
tvámagne rudró ásuro mahó divástvám śárdho mā́rutam pṛkṣá īśiṣe ǀ
tvám vā́tairaruṇáiryāsi śaṃgayástvám pūṣā́ vidhatáḥ pāsi nú tmánā ǁ
tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe |
tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।
त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥
त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे ।
त्वम् । वातैः । अरुणैः । यासि । शम्ऽगयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना ॥
tvám ǀ agne ǀ rudráḥ ǀ ásuraḥ ǀ maháḥ ǀ diváḥ ǀ tvám ǀ śárdhaḥ ǀ mā́rutam ǀ pṛkṣáḥ ǀ īśiṣe ǀ
tvám ǀ vā́taiḥ ǀ aruṇáiḥ ǀ yāsi ǀ śam-gayáḥ ǀ tvám ǀ pūṣā́ ǀ vidhatáḥ ǀ pāsi ǀ nú ǀ tmánā ǁ
tvam ǀ agne ǀ rudraḥ ǀ asuraḥ ǀ mahaḥ ǀ divaḥ ǀ tvam ǀ śardhaḥ ǀ mārutam ǀ pṛkṣaḥ ǀ īśiṣe ǀ
tvam ǀ vātaiḥ ǀ aruṇaiḥ ǀ yāsi ǀ śam-gayaḥ ǀ tvam ǀ pūṣā ǀ vidhataḥ ǀ pāsi ǀ nu ǀ tmanā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.001.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.18.01
- Maṇḍala · Anuvāka · Ṛk
- 02.01.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.