Ṛk 2.10.2
Saṃhitā
श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।
श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥
श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः |
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ||
śrūyā́ agníścitrábhānurhávam me víśvābhirgīrbhíramṛ́to vícetāḥ ǀ
śyāvā́ rátham vahato róhitā votā́ruṣā́ha cakre víbhṛtraḥ ǁ
śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ |
śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||
Padapāṭha
श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः ।
श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥
श्रुयाः । अग्निः । चित्रऽभानुः । हवम् । मे । विश्वाभिः । गीःऽभिः । अमृतः । विऽचेताः ।
श्यावा । रथम् । वहतः । रोहिता । वा । उत । अरुषा । अह । चक्रे । विऽभृत्रः ॥
śruyā́ḥ ǀ agníḥ ǀ citrá-bhānuḥ ǀ hávam ǀ me ǀ víśvābhiḥ ǀ gīḥ-bhíḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ
śyāvā́ ǀ rátham ǀ vahataḥ ǀ róhitā ǀ vā ǀ utá ǀ aruṣā́ ǀ áha ǀ cakre ǀ ví-bhṛtraḥ ǁ
śruyāḥ ǀ agniḥ ǀ citra-bhānuḥ ǀ havam ǀ me ǀ viśvābhiḥ ǀ gīḥ-bhiḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ
śyāvā ǀ ratham ǀ vahataḥ ǀ rohitā ǀ vā ǀ uta ǀ aruṣā ǀ aha ǀ cakre ǀ vi-bhṛtraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.010.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.02.02
- Maṇḍala · Anuvāka · Ṛk
- 02.01.085
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.