Ṛgveda · Maṇḍala 2 · Sūkta 10

Ṛk 2.10.6

Agni · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।
अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥

ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम |
अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ||

jñeyā́ bhāgám sahasānó váreṇa tvā́dūtāso manuvádvadema ǀ
ánūnamagním juhvā́ vacasyā́ madhupṛ́cam dhanasā́ johavīmi ǁ

jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema |
anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi ||

Padapāṭha

ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे॑ण । त्वाऽदू॑तासः । म॒नु॒ऽवत् । व॒दे॒म॒ ।
अनू॑नम् । अ॒ग्निम् । जु॒ह्वा॑ । व॒च॒स्या । म॒धु॒ऽपृच॑म् । ध॒न॒ऽसाः । जो॒ह॒वी॒मि॒ ॥

ज्ञेयाः । भागम् । सहसानः । वरेण । त्वाऽदूतासः । मनुऽवत् । वदेम ।
अनूनम् । अग्निम् । जुह्वा । वचस्या । मधुऽपृचम् । धनऽसाः । जोहवीमि ॥

jñeyā́ḥ ǀ bhāgám ǀ sahasānáḥ ǀ váreṇa ǀ tvā́-dūtāsaḥ ǀ manu-vát ǀ vadema ǀ
ánūnam ǀ agním ǀ juhvā́ ǀ vacasyā́ ǀ madhu-pṛ́cam ǀ dhana-sā́ḥ ǀ johavīmi ǁ

jñeyāḥ ǀ bhāgam ǀ sahasānaḥ ǀ vareṇa ǀ tvā-dūtāsaḥ ǀ manu-vat ǀ vadema ǀ
anūnam ǀ agnim ǀ juhvā ǀ vacasyā ǀ madhu-pṛcam ǀ dhana-sāḥ ǀ johavīmi ǁ

References

Maṇḍala · Sūkta · Ṛk
02.010.06
Aṣṭaka · Adhyāya · Varga · Ṛk
2.6.02.06
Maṇḍala · Anuvāka · Ṛk
02.01.089
Devatā देवता
Agni
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.10.6

Interpretations

Sāyaṇa

श्रुधीहवमित्येकविंशत्यृचमेकादशंसूक्तम् गार्त्समदं अत्रानुक्रमणिका श्रुधिसैकैन्द्रंविराट् स्थानमृ- तेन्त्यामिति विराट् स्थानात्रिष्टुप् तल्लक्षणमनुक्रमण्यामुक्तम्—नबकौबैराजस्त्रैष्टुभश्च द्वौवावैराजौ- नवकस्त्रैष्टुभश्चविराट्स्थानेति । अन्त्यात्रिष्टुप् विशेषस्यानुक्तत्वात् इन्द्रोदेवता पृष्ठ्यस्यचतुर्थेहनि- मरुत्वतीयशस्त्रेद्वेसूक्तेनिविद्धाने तत्रेदंतृतीयंसूक्तं चतुर्थेहनीतिखण्डेसूत्रितं—श्रुधीहवमिन्द्रमरुत्वाँ- इन्द्रेतिमरुत्वतीयमिति ।