Ṛk 2.25.2
Saṃhitā
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना |
तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ||
vīrébhirvīrā́nvanavadvanuṣyató góbhī rayím paprathadbódhati tmánā ǀ
tokám ca tásya tánayam ca vardhate yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ
vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā |
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
Padapāṭha
वी॒रेभिः॑ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः॑ । र॒यिम् । प॒प्र॒थ॒त् । बोध॑ति । त्मना॑ ।
तो॒कम् । च॒ । तस्य॑ । तन॑यम् । च॒ । व॒र्ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥
वीरेभिः । वीरान् । वनवत् । वनुष्यतः । गोभिः । रयिम् । पप्रथत् । बोधति । त्मना ।
तोकम् । च । तस्य । तनयम् । च । वर्धते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥
vīrébhiḥ ǀ vīrā́n ǀ vanavat ǀ vanuṣyatáḥ ǀ góbhiḥ ǀ rayím ǀ paprathat ǀ bódhati ǀ tmánā ǀ
tokám ǀ ca ǀ tásya ǀ tánayam ǀ ca ǀ vardhate ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ
vīrebhiḥ ǀ vīrān ǀ vanavat ǀ vanuṣyataḥ ǀ gobhiḥ ǀ rayim ǀ paprathat ǀ bodhati ǀ tmanā ǀ
tokam ǀ ca ǀ tasya ǀ tanayam ǀ ca ǀ vardhate ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.025.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.04.02
- Maṇḍala · Anuvāka · Ṛk
- 02.03.037
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.