YSBhā zu YS, 4, 19.1
Select a line for its word-by-word analysis.
यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान् न स्वाभासानि तथा मनो ऽपि प्रत्येतव्यम् । (१।१)
yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam |
न ह्य् अग्निर् आत्मस्वरूपम् अप्रकाशं प्रकाशयति । (१।३)
na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati |
प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । (१।४)
prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ |
किंच स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः । (१।६)
kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ |
स्वात्मप्रतिष्ठम् आकाशं न परप्रतिष्ठम् इत्य् अर्थः । (१।८)
svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ |
स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते । (१।९)
svabuddhipracārapratisaṃvedanāt sattvānāṃ pravṛttir dṛśyate |
क्रुद्धो ऽहं भीतो ऽहम् अमुत्र मे रागो ऽमुत्र मे क्रोध इति । (१।१०)
kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti |
Data courtesy of The Digital Corpus of Sanskrit.