Ṛk 2.42.2
Saṃhitā
मा त्वा॑ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान्वी॒रो अस्ता॑ ।
पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुमं॒गलो॑ भद्रवा॒दी व॑दे॒ह ॥
मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता |
पित्र्याम् अनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह ||
mā́ tvā śyená údvadhīnmā́ suparṇó mā́ tvā vidadíṣumānvīró ástā ǀ
pítryāmánu pradíśam kánikradatsumaṅgálo bhadravādī́ vadehá ǁ
mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā |
pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha ||
Padapāṭha
मा । त्वा॒ । श्ये॒नः । उत् । व॒धी॒त् । मा । सु॒ऽप॒र्णः । मा । त्वा॒ । वि॒द॒त् । इषु॑ऽमान् । वी॒रः । अस्ता॑ ।
पित्र्या॑म् । अनु॑ । प्र॒ऽदिश॑म् । कनि॑क्रदत् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । व॒द॒ । इ॒ह ॥
मा । त्वा । श्येनः । उत् । वधीत् । मा । सुऽपर्णः । मा । त्वा । विदत् । इषुऽमान् । वीरः । अस्ता ।
पित्र्याम् । अनु । प्रऽदिशम् । कनिक्रदत् । सुऽमङ्गलः । भद्रऽवादी । वद । इह ॥
mā́ ǀ tvā ǀ śyenáḥ ǀ út ǀ vadhīt ǀ mā́ ǀ su-parṇáḥ ǀ mā́ ǀ tvā ǀ vidat ǀ íṣu-mān ǀ vīráḥ ǀ ástā ǀ
pítryām ǀ ánu ǀ pra-díśam ǀ kánikradat ǀ su-maṅgálaḥ ǀ bhadra-vādī́ ǀ vada ǀ ihá ǁ
mā ǀ tvā ǀ śyenaḥ ǀ ut ǀ vadhīt ǀ mā ǀ su-parṇaḥ ǀ mā ǀ tvā ǀ vidat ǀ iṣu-mān ǀ vīraḥ ǀ astā ǀ
pitryām ǀ anu ǀ pra-diśam ǀ kanikradat ǀ su-maṅgalaḥ ǀ bhadra-vādī ǀ vada ǀ iha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.042.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.11.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.105
- Devatā देवता
- Kapiñjala Ivendraḥ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.