Ṛk 2.20.2
Saṃhitā
त्वं न॑ इंद्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् ।
त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥
त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् |
त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ||
tvám na indra tvā́bhirūtī́ tvāyató abhiṣṭipā́si jánān ǀ
tváminó dāśúṣo varūtétthā́dhīrabhí yó nákṣati tvā ǁ
tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān |
tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā ||
Padapāṭha
त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् ।
त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥
त्वम् । नः । इन्द्र । त्वाभिः । ऊती । त्वाऽयतः । अभिष्टिऽपा । असि । जनान् ।
त्वम् । इनः । दाशुषः । वरूता । इत्थाऽधीः । अभि । यः । नक्षति । त्वा ॥
tvám ǀ naḥ ǀ indra ǀ tvā́bhiḥ ǀ ūtī́ ǀ tvā-yatáḥ ǀ abhiṣṭi-pā́ ǀ asi ǀ jánān ǀ
tvám ǀ ináḥ ǀ dāśúṣaḥ ǀ varūtā́ ǀ itthā́-dhīḥ ǀ abhí ǀ yáḥ ǀ nákṣati ǀ tvā ǁ
tvam ǀ naḥ ǀ indra ǀ tvābhiḥ ǀ ūtī ǀ tvā-yataḥ ǀ abhiṣṭi-pā ǀ asi ǀ janān ǀ
tvam ǀ inaḥ ǀ dāśuṣaḥ ǀ varūtā ǀ itthā-dhīḥ ǀ abhi ǀ yaḥ ǀ nakṣati ǀ tvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.020.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.25.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.088
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.