Ṛk 2.20.4
Saṃhitā
तमु॑ स्तुष॒ इंद्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ ।
स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥
तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च |
स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ||
támu stuṣa índram tám gṛṇīṣe yásminpurā́ vāvṛdhúḥ śāśadúśca ǀ
sá vásvaḥ kā́mam pīparadiyānó brahmaṇyató nū́tanasyāyóḥ ǁ
tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca |
sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ ||
Padapāṭha
तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ ।
सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥
तम् । ऊं इति । स्तुषे । इन्द्रम् । तम् । गृणीषे । यस्मिन् । पुरा । ववृधुः । शाशदुः । च ।
सः । वस्वः । कामम् । पीपरत् । इयानः । ब्रह्मण्यतः । नूतनस्य । आयोः ॥
tám ǀ ūṃ íti ǀ stuṣe ǀ índram ǀ tám ǀ gṛṇīṣe ǀ yásmin ǀ purā́ ǀ vavṛdhúḥ ǀ śāśadúḥ ǀ ca ǀ
sáḥ ǀ vásvaḥ ǀ kā́mam ǀ pīparat ǀ iyānáḥ ǀ brahmaṇyatáḥ ǀ nū́tanasya ǀ āyóḥ ǁ
tam ǀ ūṃ iti ǀ stuṣe ǀ indram ǀ tam ǀ gṛṇīṣe ǀ yasmin ǀ purā ǀ vavṛdhuḥ ǀ śāśaduḥ ǀ ca ǀ
saḥ ǀ vasvaḥ ǀ kāmam ǀ pīparat ǀ iyānaḥ ǀ brahmaṇyataḥ ǀ nūtanasya ǀ āyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.020.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.25.04
- Maṇḍala · Anuvāka · Ṛk
- 02.02.090
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.