Ṛk 2.20.8
Saṃhitā
तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेंद्रा॑य दे॒वेभि॒रर्ण॑सातौ ।
प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥
तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ |
प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ||
tásmai tavasyámánu dāyi satréndrāya devébhirárṇasātau ǀ
práti yádasya vájram bāhvórdhúrhatvī́ dásyūnpúra ā́yasīrní tārīt ǁ
tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau |
prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt ||
Padapāṭha
तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ ।
प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥
तस्मै । तवस्यम् । अनु । दायि । सत्रा । इन्द्राय । देवेभिः । अर्णऽसातौ ।
प्रति । यत् । अस्य । वज्रम् । बाह्वोः । धुः । हत्वी । दस्यून् । पुरः । आयसीः । नि । तारीत् ॥
tásmai ǀ tavasyám ǀ ánu ǀ dāyi ǀ satrā́ ǀ índrāya ǀ devébhiḥ ǀ árṇa-sātau ǀ
práti ǀ yát ǀ asya ǀ vájram ǀ bāhvóḥ ǀ dhúḥ ǀ hatvī́ ǀ dásyūn ǀ púraḥ ǀ ā́yasīḥ ǀ ní ǀ tārīt ǁ
tasmai ǀ tavasyam ǀ anu ǀ dāyi ǀ satrā ǀ indrāya ǀ devebhiḥ ǀ arṇa-sātau ǀ
prati ǀ yat ǀ asya ǀ vajram ǀ bāhvoḥ ǀ dhuḥ ǀ hatvī ǀ dasyūn ǀ puraḥ ǀ āyasīḥ ǀ ni ǀ tārīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.020.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.26.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.094
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.